Friday, July 10, 2026

मङ्गलाष्टकम्

 ।। अथ मंगलाष्टक मंत्र ।।


 श्रीमत्पङ्कजविष्टरो हरिहरौ वायुर्महेन्द्रोऽनलः

चन्द्रो भास्करवित्तपालवरुणाः प्रेताधिपादिग्रहाः।

प्रद्युम्नो नलकूबरौ सुरगजः चिन्तामणिः कौस्तुभः

स्वामी शक्तिधरश्च लांगलधरः कुर्वन्तु वो मङ्गलम्॥


गंगा गोमतिगोपतिगर्णपतिः गोविन्दगोवधर्नौ गीता गोमयगोरजौ गिरिसुता गंगाधरो गौतमः। गायत्री गरुडो गदाधरगया गम्भीरगोदावरी गन्धवर्ग्रहगोपगोकुलधराः कुवर्न्तु वो मङ्गलम्॥


नेत्राणां त्रितयं महत्पशुपतेः अग्नेस्तु पादत्रयं

तत्तद्विष्णुपदत्रयं त्रिभुवने ख्यातं च रामत्रयम्।

गङ्गावाहपथत्रयं सुविमलं वेदत्रयं ब्राह्मणैः

सन्ध्यानां त्रितयं द्विजैरभिमतं कुर्वन्तु वो मङ्गलम्॥

वाल्मीकिः सनकः सनन्दनमुनिः व्यासो वसिष्ठो भृगुः

जाबालिर्जमदग्निरत्रिजनकौ गर्गोऽङ्गिरा गौतमः।

मान्धाता भरतो नृपश्च सगरो धन्यो दिलीपो नलः

पुण्यो धर्मसुतो ययातिनहुषौ कुर्वन्तु वो मङ्गलम्॥


गौरी श्रीकुलदेवता च सुभगा कद्रूसुपर्णाशिवाः

सावित्री च सरस्वती च सुरभिः सत्यव्रतारुन्धती।

स्वाहा जाम्बवती च रुक्मभगिनी दुःस्वप्नविध्वंसिनी

वेला चाम्बुनिधेः समीनमकरा कुर्वन्तु वो मङ्गलम्॥

 गंगा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा

कावेरी सरयू महेन्द्रतनया चर्मण्वती वेदिका।

शिप्रा वेत्रवती महासुरनदी ख्याता च या गण्डकी

पूर्णाः पुण्यजलैः समुद्रसहिताः कुर्वन्तु वो मङ्गलम्॥

लक्ष्मीः कौस्तुभपारिजातकसुरा धन्वन्तरिश्चन्द्रमाः

गावः कामदुघाः सुरेश्वरगजो रम्भादि-देवाङ्गनाः।

अश्वः सप्तमुखः सुधा हरिधनुः शङ्खो विषं चाम्बुधेः

रत्नानीति चतुर्दश प्रतिदिनं कुर्वन्तु वो मङ्गलम्॥

ब्रह्मा वेदपतिः शिवः पशुपतिः सूर्यो ग्रहाणां पतिः

शक्रो देवपतिर्नलो नरपतिः स्कन्दश्च सेनापतिः।

विष्णुर्यज्ञपतिर्यमः पितृपतिः तारापतिश्चन्द्रमाः

इत्येते पतयः सुपर्णसहिताः कुर्वन्तु वो मङ्गलम्॥


।। इति मंगलाष्टकम् ।।


लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः

पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः।

ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोस्सेवकाः स त्रैलोक्य कुटुम्ब पालनपर: कुर्वन्तु ते मङ्गलम् ।। १ ।।


ब्रह्मा वायु गिरीश शेष गरुडा देवेन्द्र कामौ गुरु ।

श्चन्द्रार्कौ वरुणाsनलौ मनु यमौ वित्तेश विघ्नेश्वरौ ।।

नासत्यौ निऋतिर्मरुद्गणयुता: पर्जन्यमित्रादय: ।

सस्त्रीका: सुरपुङ्गवा: प्रतिदिनं कुर्वन्तु ते मङ्गलम् ।। २ ।।


विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः

श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः।

माण्डव्यो जमदग्निगौतमभरद्वाजादयस्तापसाः

श्रीमद्विष्णुपदाब्जभक्तिनिरताः कुर्वन्तु ते मङ्गलम्॥३।।

मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः

श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः।

इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपादो ध्रुवः

इत्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु ते मङ्गलम्॥ ४ ॥

श्रीमेरुर्हिमवांश्च मन्दरगिरिः कैलासशैलस्तथा ।

माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ॥

सह्याद्रिर्वरगन्धमादनगिरिमैनाकगोमान्तकाः ।

इत्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु ते मङ्गलम् ॥ ५ ।।



गङ्गा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा

कृष्णावेणिकलिन्दजाचफाल्गुर्भीमारथी गोमती।

कावेरी कपिला प्रयागविनता वेत्रावतीत्यादयो,

नद्यश्: श्रीहरिपादपङ्कजभवाः कुर्वन्तु ते मङ्गलम्॥ ६ ॥

वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गाः पुराणान्विताः

वेदान्तापि च मन्त्रतन्त्रसहितास्तर्कस्मृतीनां गणाः।

काव्यालङ्कृतिनीतिनाटकगणाः शब्दाश्च नानाविधाः

श्रीविष्णोर्गुणराशिकीर्तनकराः कुर्वन्तु ते मङ्गलम्॥ ७ ॥

आदित्यादिनवग्रहा: शुभकरा मेषादयो राशयो 

नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्गणा: ।

मासाब्दा ऋतवस्तथैव दिवसा: सन्ध्यास्तथा रात्रय: 

सर्वे स्थावर जङ्गमा: प्रतिदिनं कुर्वन्तु ते मङ्गलम् ।। ८ ।।

मङ्गलाष्टकम्

  ।। अथ मंगलाष्टक मंत्र ।। ॐ  श्रीमत्पङ्कजविष्टरो हरिहरौ वायुर्महेन्द्रोऽनलः चन्द्रो भास्करवित्तपालवरुणाः प्रेताधिपादिग्रहाः। प्रद्युम्नो नल...